International Research journal of Management Sociology & Humanities
( ISSN 2277 - 9809 (online) ISSN 2348 - 9359 (Print) ) New DOI : 10.32804/IRJMSH
**Need Help in Content editing, Data Analysis.
Adv For Editing Content
पातञ्जलयोगदर्शने अष्टाङ्योगनिरूपणम्
1 Author(s): VIRENDER KUMAR
Vol - 5, Issue- 4 , Page(s) : 297 - 301 (2014 ) DOI : https://doi.org/10.32804/IRJMSH
अधुना योग दर्शनस्य चर्चा सर्वत्र भवति। एतद् दर्शनम् न केवलं अतिप्राचीनम् अपितु नितान्तं वैज्ञानिकं दर्शनम् अस्ति। महर्षि: पतञ्जलि: योगदर्शनम् उपदिष्टवान्। भारते एव योगशास्त्रस्य आविर्भाव: अभवत्। योग: देहात्मनो: प्रत्यक्षं वैज्ञानिकं साधनमस्ति। एतद्दर्शने शरीरस्य मनस: अपि नियमनं प्रतिपादितम्। यद्यपि योगशास्त्रम् अतिप्राचीनं परं अस्य परिष्कार: महर्षिपतञ्जलिना कृत:। अतएव लोके पातञ्जलयोग दर्शनम् इति प्रसिद्धम्। महर्षिपतञ्जलिना योगस्य प्रमुखानि सूत्राणि विरचितानि सन्ति। एतेषु सूत्रेषु योगदर्शनस्य तात्त्विकं स्वरूपं निर्दिश्यते।